|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.204. अध्यायः 204
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मनुबृहस्पतिसंवादानुवादसमापनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
मनुरुवाच। 12-204-0x(6050)(73061)
`तदेव सततं मन्ये न शक्यमनुवर्णितुम्।
यथा निदर्शनं वस्तु न शक्यमनुबोधितुम्॥ 12-204-1(73062)
यथाहि सारं जानाति न कथंचन संस्थितम्।
परकायच्छविस्तद्वद्देहेऽयं चेतनस्तथा॥ 12-204-2(73063)
विना कायं न सा च्छाया तां विना कायमस्त्युत।
तद्वदेव विना नास्ति प्रकृतेरिह वर्तनम्॥ 12-204-3(73064)
इदं वै नास्ति नेदमस्ति परं विना।
जीवात्मना त्वसौ छिन्नस्त्वेष चैव परात्मना॥ 12-204-4(73065)
तत्तवेति विदुः केचिदतथ्यमिति चापरे।
उभयं मे मतं विद्वन्मुक्तिहेतौ समाहितम्॥ 12-204-5(73066)
विमुक्तैश्च मृगः सोऽपि दृश्यते संयतेन्द्रियः।
सर्वेषां न हि दृश्यो हि तटिद्वत्स्फुरति ह्यसौ॥ 12-204-6(73067)
ब्राह्मणस्य समादृश्यो वर्तते सोऽपि किं पुनः।
विद्यते परमः शुद्धः साक्षिभूतो विभावसुः॥ 12-204-7(73068)
श्रुतिरेषा ततो नित्या तस्मादेकः परो मतः।
न प्रयोजनमुद्दिश्य चेष्टा तस्य महात्मनः॥ 12-204-8(73069)
तादृशोस्त्विति मन्तव्यस्तथा सत्यं महात्मना।
नानासंस्थेन भेदेन सदा गतिविभेदवत्।
तस्य भेदः समाख्यातो भेदो ह्यस्ति तथाविधः॥ 12-204-9(73070)
एवं विद्वन्विजानीहि परमात्मानमव्ययम्।
तत्तद्गुणविशेषेण संज्ञानामनुसंयुतम्॥ 12-204-10(73071)
सर्वेश्वरः सर्वमयः स च सर्वप्रवर्तकः।
सर्वात्मकः सर्वशक्तिः सर्वकारणकारणम्॥ 12-204-11(73072)
सर्वसाधारणः सर्वैरुपास्यश्च महात्मभिः।
वासुदेवेति विख्यातस्तं विदित्वाऽश्नुतेऽमृतम्॥' 12-204-12(73073)
यदा ते प़ञ्चभिः पञ्च युक्तानि मनसा सह।
अथ तद्द्रक्ष्यते ब्रह्म मणौ सूत्रमिवार्पितम्॥ 12-204-13(73074)
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः।
मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा॥ 12-204-14(73075)
तद्वद्गोऽश्वमनुष्येषु तद्वद्धस्तिमृगादिषु।
तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः॥ 12-204-15(73076)
येनयेन शरीरेण यद्यत्कर्म करोत्ययम्।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते॥ 12-204-16(73077)
यथा ह्येकरसा भूमिरोषध्यर्थानुसारिणी।
तथा कर्मानुगा बुद्धिरन्तरात्माऽनुदर्शिनी॥ 12-204-17(73078)
ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसन्धिता।
अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम्॥ 12-204-18(73079)
फलं कर्मत्मकं विद्यात्कर्म ज्ञेयात्मकं तथा।
ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम्॥ 12-204-19(73080)
`तदेवमिष्यते ब्रह्म संख्यानाद्विनिभिद्यते।'
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा।
क्षयान्ते यत्फलं विद्याज्ज्ञानं ज्ञेयप्रतिष्ठितम्॥ 12-204-20(73081)
महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः।
अबुधास्तं न पश्यन्ति ह्यात्मस्थं गुणबुद्धयः॥ 12-204-21(73082)
पृथिवीरुपतो रूपमपामिह महत्तरम्।
अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान्॥ 12-204-22(73083)
पवनाच्च महद्व्योम तस्मात्परतरं मनः।
मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः॥ 12-204-23(73084)
कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत्।
नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते॥ 12-204-24(73085)
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः।
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते॥ 12-204-25(73086)
तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम्।
तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः॥ 12-204-26(73087)
गुणेष्वेते प्रकाशन्ते निर्गुणत्वात्ततः परम्।
निवृत्तिलक्षणो धर्मस्तथाऽऽनन्त्याय कल्पते॥ 12-204-27(73088)
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः।
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्याविनाशिनः॥ 12-204-28(73089)
न चैवमिष्यते ब्रह्म शरीराश्रयसंभवम्।
न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवन्॥ 12-204-29(73090)
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते।
अन्तश्चादिमतां दृष्टो न त्वादिर्ब्रह्मणः स्मृतः॥ 12-204-30(73091)
अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम्।
अव्ययत्वाच्च निर्दुःखं द्वन्द्वाभावस्ततः परम्॥ 12-204-31(73092)
अदृष्टतोऽनुपायाच्च प्रतिसन्धेश्च कर्मणः।
न तेन मर्त्याः पश्यन्ति येन गच्छान्त तत्पदम्॥ 12-204-32(73093)
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात्।
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते॥ 12-204-33(73094)
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः।
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः॥ 12-204-34(73095)
गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान्।
अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम्॥ 12-204-35(73096)
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः।
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम्॥ 12-204-36(73097)
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या मनस्तथा।
मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते॥ 12-204-37(73098)
बुद्धिप्रहीणो मनसा समृद्ध
स्तथाऽनिराशीर्गुणतामुपैति।
परं त्यजन्तीह विलोभ्यमाना
हुताशनं वायुरिवेन्धनस्थम्॥ 12-204-38(73099)
गुणादाने विप्रयोगे च तेषां
मनः सदा विद्धि परावराभ्याम्।
अनेनैव विधिना संप्रवृत्तो
गुणादाने ब्रह्म शरीरमेति॥ 12-204-39(73100)
अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा
सोऽव्यक्तत्वं गच्छति ह्यन्तकाले।
तैरेवायं चेन्द्रियैर्वर्धमानै
र्ग्लायद्भिर्वा वर्ततेऽकामरूपः॥ 12-204-40(73101)
सर्वैरयं चेन्द्रियैः संप्रयुक्तो
देहं प्राप्तः यञ्चभूताश्रयः स्यात्।
न सामर्थ्याद्गच्छति कर्मणेह
हीनस्तेन परमेणाव्ययेन॥ 12-204-41(73102)
पृथ्व्या नरः पश्यति नान्तमस्या
ह्यन्तश्चास्या भविता चेति विद्धि।
परं न यातीह विलोभ्यमानो
यथा प्लवं वायुरिवार्णवस्थम्॥ 12-204-42(73103)
दिवाकरो गुणमुपलभ्य निर्गुणो
यथा भवेदपगतरश्मिमण्डलः।
तथां ह्यसौ मुनिरिह निर्विशेषवान्
स निर्गुणं प्रविशति ब्रह्म चाव्ययम्॥ 12-204-43(73104)
अनागतं सुकृतवतां परां गतिं
स्वयंभुवं प्रभवनिधानमव्ययम्।
सनातनं यदमृतमव्ययं ध्रुवं
निचाय्य तत्परममृतत्वमश्नुते॥ ॥ 12-204-44(73105)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरधिकद्विशततमोऽध्यायः॥ 204॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-204-16 येनयेन पित्र्येण दैवेन गान्धर्वेण प्राजापत्येन वा प्राप्येण हेतुभूतेन यस्य यस्य देहस्य प्राप्त्यर्थमित्यर्थः। यद्यत्कर्म यज्ञादिकम्॥ 12-204-33 शाश्वतस्य दर्शनात् इति झ. पाठः॥ 12-204-40 यो व्यक्तत्वं गच्छति ब्रह्मभूयः। सुपुष्पितैः कर्मभिरिद्ध्यमानः सायंदिवो वर्तते कर्मरूपः इति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|